Shri Chakshushopanishad
Popularity · Low
YouTube
Searching YouTube...
Lyrics
हरि: ओम्
सहनाववतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विना वधीतमस्तु मा विद्विषावहै ||
ओं शान्ति: शान्ति: शान्ति: ||
अथातश् चाक्षुषीम् पठित सिद्धिविद्याम्, चक्षुरोग हराम् व्याख्यास्यामो, यथा चक्षु रोगा: सर्वतो नस्यन्ति, चक्षुषो दीप्तिर् भवति |
अस्याश् चाक्षुष विद्याया: अहिर्बुध्न्या: प्रदीप् तारो भवन्ति, सूर्य: सविता देवता | चक्षुरोग निवृत्तये जपे विनियोग: ||
ॐ चक्षुः चक्षुः चक्षुः तेज स्थिरो भव । मां पाहि पाहि । त्वरितम् चक्षु रोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय | यथा अहम् अन्धो नस्यां तथा कल्पय कल्पय । कल्याणं कुरू कुरू | यानि मम पूर्वजन्मोपार्जितानी चक्षु: प्रतिरोधक दुष्कृतानि रोगानि सर्वाणि निर्मूलय निर्मूलय । ॐ नम: स्चक्षुस्तेजो दात्रे दिव्याय भास्कराय । ॐ नम: कल्याणकराय अमृताय | ॐ नमःस्सूर्याय |
ॐ नमो भगवते सूर्याय - अक्षितेजसे नमः।
ॐ खेचराय नमः । ॐ महते नमः । ॐ रजसे नमः । ॐ तमसे नमः । ॐ सत्त्वसे नम: |
ॐ असतो मा सद्गमय | तमसो मा ज्योर्ति गमय | । मृत्योर्मा अमृतं गमय ।
उष्णो भगवान्शुचिरूपः हंसो भगवान् शुचि-प्रतिरूप: । य इमां चाक्षुष्मतीं विध्यां ब्राह्मणो नित्यमधीते नतस्य अक्षिरोगो भवति | नतस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विध्या सिद्धिर् भवति । विश्वरूपम् घृणिनम् जातवेदसम् हिरण्मयम् पुरुषम् ज्योतिरूपम् तपन्तम् सहस्ररश्मि: शतधावर्तमान: पुरुष: प्रजानाम् उदयत्येष सूर्य: | ॐ नमो भगवते आदित्याय ||
ॐ नमो भगवते आदित्याय अक्षितेजसे अहो वाहिनी वाहिनी स्वाहा ||