Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Achyuta Ashtakam
Om Voices, Sai Madhukar
Popularity · Low
+
🇮🇳 Marathi · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम्
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे
अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम्
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे
विष्णवे जिष्णवे शाङ्खिने चक्रिणे
रुक्मिणिरागिणे जानकीजानये
बल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः
कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक
राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभूपुण्यताकारणः
लक्ष्मणेनान्वितो वानरौः सेवितो
गस्तसम्पूजितो राघव पातु माम्
धेनुकारिष्टकानिष्टकृद्द्वेषिहा
केशिहा कंसहृद्वंशिकावादकः
पूतनाकोपकःसूरजाखेलनो
बालगोपालकः पातु मां सर्वदा
विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्
वन्यया मालया शोभितोरःस्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे
कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयोः
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे
अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम्
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे
अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम्
वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य
वश्यो हरिर्जायते सत्वरम्