Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Mantra Pushpanjali
Guruji Hemant Bhatawdekar
Popularity · Low
+
🇮🇳 Marathi · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः
ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे
स मे कामान्कामकामाय मह्यम् कामेश्वरो वैश्रवणो ददातु
कुबेराय वैश्रवणाय महाराजाय नमः
ॐ स्वस्ति
साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं
माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात्सार्वभौमः सार्वायुष आंतादापरार्धात्
पृथिव्यै समुद्रपर्यंताया एकराळिति
तदप्येषः श्लोको ऽभिगीतो
मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे
आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति