Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Soundarya Lahari
Sounds of Isha
Popularity · Low
+
🇮🇳 Marathi · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
महीं मूलाधारे कमपि मणिपूरे हुतवहं
महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि
मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे
सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि
जगत्सूते धाता हरिरवति रुद्रः क्षपयते
जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति
सदा पूर्वः सर्वं तदिद मनुगृह्णाति च शिव
स्तवाज्ञा मलम्ब्य क्षणचलितयो र्भ्रूलतिकयोः
जपो जल्पः शिल्पं सकलमऽपि मुद्राविरचना
जपो जल्पः शिल्पं सकलमऽपि मुद्राविरचना
गतिः प्रादक्षिण्य-क्रमण-मशनाद्या हुति-विधिः
प्रणामः संवेशः सुखमखिल-मात्मार्पण-दृशा
सपर्या पर्याय-स्तव भवतु यन्मे विलसितम्
तव स्वाधिष्टाने हुतवहमधिष्ठाय निरतम्
तव स्वाधिष्टाने हुतवहमधिष्ठाय निरतम्
तमीडे संवर्तं जननि महतीं तांचसमयाम्
यदालोके लोकान्दहति महति क्रोध कलिते
दयार्द्रा यद्दृष्टिः शिशिरमुपचारं रचयति
तवाधारे मूले सह समयया लास्यपरया
तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरस महाताण्डव नटम्
उभाभ्यामेताभ्यामुदय विधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञेजनक जननीमज्जगदिदम्
विभक्तत्रैवर्ण्यं व्यतिकरित लीलाञ्जनतया
विभक्तत्रैवर्ण्यं व्यतिकरित लीलाञ्जनतया
विभाति त्वन्नेत्र त्रितयमिदमीशान दयिते
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरता
न्रज: सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव
महीं मूलाधारे कमपि मणिपूरे हुतवहं