Skip to content

Shiva Shaktikrutam Ganadeesha Stotram

G Gayathri Devi feat. S. Saindhavi, Priya & R. Shruti
Popularity · Low

YouTube

Searching YouTube...

Lyrics

नमस्ते गणनाथाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥ वरदाभयहस्ताय नमः परशुधारिणे । नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ॥ ३॥ अनामयाय सर्वाय सर्वपूज्याय ते नमः । सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥ ४॥ ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते । आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ॥ ५॥ मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः । अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥ ६॥ विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते । त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ॥ ७॥ किं स्तुवो योगरूपं तं प्रणमावश्च विघ्नपम् । तेन तुष्टो भव स्वामिन्नित्युकत्वा तं प्रणेमतुः ॥ ८॥ तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ । गणेश उवाच । भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ॥ ९॥ भविष्यति च सौख्यस्य पठते शुण्वते प्रदम् । भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ॥ १०॥ धनधान्यादिकं सर्वं लभते तेन निश्चितम् । इति शिवशक्तिकृतं श्रीगणाधीशस्तोत्रं समाप्तम्