Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Ram Raksha Stotra
Anand, Khalid
Popularity · Low
+
🇮🇳 Hindi · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
श्री गणेशाय नमः
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः
श्री सीतारामचंद्रो देवता
अनुष्टुप छंदः सीता शक्तिः
श्रीमद् हनुमान कीलकम्
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः
अथ ध्यानम्
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं
पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम्
वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नीरदाभम्
नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम्
इति ध्यानम्
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम्
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्
रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम्
शिरो मे राघवः पातु भालं दशरथात्मजः
कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः
उरु रघूत्तमः पातु रक्षःकुलविनाशकृतः
जानुनी सेतुकृत पातु जंघे दशमुखांतकः
पादौ विभीषणश्रीदः पातु रामअखिलं वपुः
एतां रामबलोपेतां रक्षां यः सुकृति पठेत्
स चिरायुः सुखी पुत्री विजयी विनयी भवेत्
पातालभूतल व्योम चारिणश्छद्मचारिणः
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः
रामेति रामभद्रेति रामचंद्रेति वा स्मरन्
नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः
वज्रपञ्जरनामेदं यो रामकवचं स्मरेत्
अव्याहताज्ञाः सर्वत्र लभते जयमंगलम्
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः
आरामः कल्पवृक्षाणां विरामः सकलापदाम्
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ
आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ
रक्षणाय मम् रामलक्ष्मणावग्रतः पथि सदैव गच्छताम्
सन्नद्धः कवची खड्गी चापबाणधरो युवा
गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः
रामो दाशरथी शूरो लक्ष्मणानुचरो बली
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः
इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम्
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः
रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुंदरम्
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शान्तमूर्तिम्
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम्
रामाय रामभद्राय रामचंद्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम
श्रीराम चन्द्रचरणौ मनसा स्मरामि
श्रीराम चंद्रचरणौ वचसा गृणामि
श्रीराम चन्द्रचरणौ शिरसा नमामि
श्रीराम चन्द्रचरणौ शरणं प्रपद्ये
माता रामो मत्पिता रामचन्द्रः
स्वामी रामो मत्सखा रामचन्द्रः
सर्वस्वं मे रामचन्द्रो दयालुर्
नान्यं जाने नैव जाने न जाने
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम्
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम्
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये
कूजन्तं रामरामेति मधुरं मधुराक्षरम्
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्
आपदामपहर्तारं दातारं सर्वसम्पदाम्
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्
भर्जनं भवबीजानामर्जनं सुखसम्पदाम्
तर्जनं यमदूतानां रामरामेति गर्जनम्
रामो राजमणि: सदा विजयते रामं रमेशं भजे
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर
राम रामेति रामेति रमे रामे मनोरमे
सहस्त्रनाम तत्तुल्यं रामनाम वरानने
इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्
श्री सीतारामचंद्रार्पणमस्तु
श्री राम
श्री राम
श्री राम