Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Saraswati Stuti Yadnyavalkya Rishi Rachit
Shankar Mahadevan
,
Kedar Pandit
Popularity · Low
+
🇮🇳 Marathi · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
कृपां कुरु जगन्मातर्मामेवं हततेजसम्
गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम्
ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते
प्रतिष्ठां कवितां देहि शक्तिं शिष्य प्रबोधिने
ग्रन्थ कर्तृत्व शक्तिं च सुशिष्यं सुप्रतिष्ठितम्
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम्
लुप्तं सर्वं दैववशान्नवीभूतं पुनः कुरु
यथाऽङ्कुरं भस्मनि च करोति देवता पुनः
ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः
यया विना जगत् सर्वं मूकमुन्मत्तवत्सदा
वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः
यया विना जगत् सर्वं शश्वज्जीवन्मृतं सदा
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसंनिभा
वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः
विसर्ग बिन्दुमात्राणां यदधिष्ठानमेव च
इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः
यया विनाऽत्र संख्याता संख्यां कर्तुं न शक्यते
काल संख्यास्वरूपा या तस्यै देव्यै नमो नमः
व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता
भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः
स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी
प्रतिभा कल्पना शक्तिर्या च तस्यै नमो नमः
(सरस्वत्यै नमो नमः)
(सरस्वत्यै नमो नमः)
(सरस्वत्यै नमो नमः)
(सरस्वत्यै नमो नमः)