Vishnu Stotram
Popularity · Low
Listen
YouTube
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम
नमस्ते सर्वलोकात्मन्नमस्ते तिग्मचक्रिणे
नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय च
जगत् हिताय कृष्णाय गोविन्दाय नमो नमः
ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते नमः
रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये
देवा यक्षासुराः सिद्धा नागा गन्धर्वकिन्नराः
पिशाचा राक्षसाश्चैव मनुष्याः पशवश्चये
पक्षिणः स्थावराश्चैव पिपीलिकसरीसृपाः
भूम्यापोऽग्निर्नभो वायुः शब्दः स्पर्शस्तथा रसः
रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः
एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत
विद्याविद्ये भवान्सत्यं असत्यं च विषामृते
प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान्
समस्तकर्मभोक्ता च कर्मोपकरणानि च
त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत्
मय्यन्यत्र तथाऽन्येष भूतेषु भुवनेषु च
तवैव व्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो
त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च यज्विन
हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक्
सर्वभूतेषु सर्वात्मन् या शक्तिरपरा तव
गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर
याऽस्तीशागोचरा वाचां मनसां चाविशेषणा
ज्ञानिज्ञानपरिच्छेद्या तां वन्दे स्वेश्वरीं पराम्
ॐ नमो वासुदेवाय तस्मै भगवते सदा
व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोऽखिलस्य यः
नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने
नाम रूपं न यस्यैको योऽस्तित्वेनोपलभ्यते
यस्यावताररूपाणि समर्चन्ति दिवौकसः
अपश्यन्तः परं रूपं नमस्तस्मै परात्मने
योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम्
तं सर्वसाक्षिणं विश्वं नमस्ते परमेश्वरम्
नमोऽस्तु विष्णवे तस्मै यस्याभिन्नमिदं जगत्
ध्येयः स जगतामाद्यः प्रसीदतु मेऽव्ययः
यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम्
आधारभूतः सर्वस्य स प्रसीदतु मे हरिः
नमोऽस्तु विष्णवे तुभ्यं नमस्तस्मै पुनः पुनः
यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः
सर्वगत्वादनन्तस्य स एवाहमवस्थितः
मत्तः सर्वमहं सर्वं मयि सर्वं सनातने
अहमेवाक्षयो नित्यः परमात्माऽऽत्मसंश्रयः
ब्रह्मसंज्ञोऽहमेवाग्रे तथाऽन्ते च परः पुमान्